वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢ग्ने꣣ ज꣡रि꣢तर्वि꣣श्प꣡ति꣢स्तपा꣣नो꣡ दे꣢व र꣣क्ष꣡सः꣢ । अ꣡प्रो꣢षिवान्गृहपते म꣣हा꣡ꣳ अ꣢सि दि꣣व꣢स्पा꣣यु꣡र्दु꣢रोण꣣युः꣢ ॥३९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः । अप्रोषिवान्गृहपते महाꣳ असि दिवस्पायुर्दुरोणयुः ॥३९॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । ज꣡रि꣢꣯तः । वि꣣श्प꣡तिः꣢ । त꣣पानः꣢ । दे꣣व । रक्ष꣡सः꣢ । अ꣡प्रो꣢꣯षिवान् । अ । प्रो꣣षिवान् । गृहपते । गृह । पते । महा꣢न् । अ꣣सि । दि꣣वः꣢ । पा꣣युः꣢ । दु꣣रोणयुः꣢ । दुः꣣ । ओनयुः꣢ । ॥३९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 39 | (कौथोम) 1 » 1 » 4 » 5 | (रानायाणीय) 1 » 4 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर और राजा का महत्त्व वर्णित किया गया है।

पदार्थान्वयभाषाः -

प्रथम—परमेश्वर के पक्ष में। हे (जरितः) सज्जनों के गुणों के प्रशंसक (अग्ने) परमात्मन् ! आप (विश्पतिः) प्रजापालक हो। हे (देव) ज्योतिर्मय ! आप (रक्षसः) राक्षसी वृत्तिवाले मनुष्यों के (तपानः) सन्तापक हो। हे (गृहपते) ब्रह्माण्डरूप गृह के स्वामिन्! (अप्रोषिवान्) ब्रह्माण्डरूप गृह से कभी प्रवास न करनेवाले, (दिवः पायुः) प्रकाशमान द्युलोक के अथवा प्रकाशमान जीवात्मा के रक्षक, (दुरोणयुः) सबको निवास गृह दिलाना चाहनेवाले आप (महान्) महान् (असि) हो ॥ द्वितीय—राजा के पक्ष में। हे (जरितः) परमेश्वर के स्तोता (अग्ने) राष्ट्रनायक राजन् ! आप (विश्पतिः) प्रजाओं के पालक हो। हे (देव) दानादि गुणों से देदीप्यमान राजन् ! आप (रक्षसः) दुष्ट शत्रुओं के (तपानः) सन्तापक हो। हे (गृहपते) राष्ट्र-गृह के स्वामिन् ! (अप्रोषिवान्) राष्ट्र से प्रवास न करनेवाले, (दिवः पायुः) विद्या आदि के प्रकाश के रक्षक, (दुरोणयुः) राष्ट्र-रूप घर की उन्नति चाहनेवाले आप (महान्) महान् (असि) हो ॥५॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥५॥

भावार्थभाषाः -

जैसे परमेश्वर सज्जनों की रक्षा करता हुआ, दुर्जनों को दण्ड देता हुआ सबकी समुन्नति चाहता है, वैसे ही राजा भी प्रजाओं का पालन करता हुआ, दुष्टों का उन्मूलन करता हुआ राष्ट्र को उत्कर्ष की ओर ले जाए ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य नृपतेश्च महत्त्वं वर्णयति।

पदार्थान्वयभाषाः -

प्रथमः—परमेश्वरपक्षे। हे (जरितः) सज्जनगुणप्रशंसक ! जरितेति स्तोतृनाम। निघं० ३।१६। स्तुतिश्च गुणप्रशंसनम्। (अग्ने) परमात्मन् ! त्वम् (विश्पतिः) प्रजापालकः असि। हे (देव) ज्योतिष्मन् ! त्वम् (रक्षसः२) राक्षसान् क्रूरान् हिंसकान् जनान् (तपानः) संतापयन् भवसि। हे (गृहपते) ब्रह्माण्डरूपस्य गृहस्य स्वामिन् ! (अप्रोषिवान्) ब्रह्माण्डगृहात् कदापि प्रवासमकुर्वन्। प्र पूर्वो वस धातुः प्रवासे वर्तते। ततः क्वसुः। (दिवः पायुः) प्रकाशमानस्य द्युलोकस्य जीवात्मनो वा रक्षकः। पा रक्षणे, कृवापा०’ उ० १।१ इति उण् प्रत्यये, आतो युक्०’ अ० ७।३।३३ इति युगागमः। (दुरोणयुः) दुरोणं गृहं परेषां कामयते इति दुरोणयुः सर्वेषां निवासप्रदः, त्वम्। दुरोण इति गृहनाम, दुरवा भवन्ति दुस्तर्पाः इति निरुक्तम् ४।५। छन्दसि परेच्छायां क्यच उपसंख्यानम्।’ अ० ३।१।८ वा० इति परेच्छायां क्यच्। (महान्) परममहिमोपेतः (असि) वर्तसे। अथ द्वितीयः—राजपक्षे। हे (जरितः) परमेश्वरस्य स्तोतः (अग्ने) राष्ट्रनायक राजन् ! त्वम् (विश्पतिः) प्रजानां पालकः असि। हे (देव) दानादिगुणैर्देदीप्यमान राजन् ! त्वम् (रक्षसः) दुष्टशत्रून् (तपानः) संतापयन् भवसि। हे (गृहपते) राष्ट्रगृहस्य स्वामिन् ! (अप्रोषिवान्) राष्ट्रात् प्रवासम् अकृतवान्, (दिवः पायुः) विद्यादिप्रकाशस्य रक्षकः, (दुरोणयुः) राष्ट्रगृहस्य समुन्नतिं कामयमानः त्वम् (महान्) अक्षयकीर्तिः (असि) विद्यसे ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

यथा परमेश्वरः सज्जनान् रक्षन्, दुर्जनान् दण्डयन् विश्वेषां समुन्नतिं कामयते तथैव राजाऽपि प्रजाः पालयन्, शत्रूनुन्मूलयन् राष्ट्रमुत्कर्षं नयेत् ॥५॥

टिप्पणी: १. ऋ० ८।६०।१९ तपानो, गृहपते इत्यत्र क्रमेण तेपानो, गृहपतिर् इति पाठः। २. रक्षसः राक्षसान्। रक्षःशब्दः पुंल्लिङ्गोऽपि दृश्यते छन्दसि—प्रति ष्म रक्षसो दह (ऋ० १०।८७।२३), यो वा रक्षाः शुचिरस्मीत्याह (ऋ० ७।१०४।१६)—इति भ०। रक्षसः राक्षसानां तपानः सन्तापकः—इति सा०।